वाचस्पत्यम्
वर || ईप्से अद० चु० उभ० सक० सेट् । वरयति ते अववरत् त ।
वाचस्पत्यम्
वर || न० व्रियते वृ—कर्मणि अप् वरि—अच् वा । १ कुङ्कुमे २ मना- गभीष्टे अमरः “वरं प्राणान् परित्यक्ष्ये” इति तन्त्रम् । मावे अप् अच् वा । ३ इच्छायाम् ४ याचने ५ आवरणे ६ वेष्टने च । वृ—कर्मणि अप् । ७ अभीष्टे ८ श्रेष्ठे च त्रि० अमरः । ९ जारे १० जामातरि शब्दर० ११ गुग्गुलौ शब्दच० १२ पत्यौ च पु० हेमच० । “तपोभिरिष्यते यस्तु देवेभ्यः स वरोमतः” इत्युक्ते १३ पदार्थे ।
शब्दकल्पद्रुमः
वरं || क्ली (व्रियते इति । वृ + कर्म्मणि अप् ।)
कुङ्कुमम् । मनाक्प्रियम् । इत्यमरः । तथा च । “वरं प्राणास्त्याज्या न च शिशुविनाशेष्वभिरति- र्वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतम् । वरं क्लीवं भाव्यं न च परकलत्राभिगमनं वरं भिक्षाशित्वं न च परधनानां हि हरणम् ॥” इति वामनपुराणे ५६ अध्यायः ॥ त्वचम् । धालकम् । आर्द्रकम् । इति राज- निर्घण्टः ॥
शब्दकल्पद्रुमः
वर || त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।)
रेफोपधः । वरयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वरः || त्रि (वृ + अप् ।)
श्रेष्ठः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, विष्णुपुराणे । १ । ११ । १८ । “राजासनं राजच्छत्रं वराश्वा वरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्त्रक ॥”)
शब्दकल्पद्रुमः
वरः || पुं, (वृ + अप् ।)
वरणम् । तत्पर्य्यायः । वृतिः २ । इत्यमरः । ३ । २ । ८ ॥ द्वे वेष्टने । प्राथेनाविशेषे इत्यन्ये । इति भरतः ॥ देवाद्- वृवः । देवसकाशात् याचितः । उक्तञ्च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥” इति च भरतः ॥ जामाता । (यथा, रघुः । ६ । ८६ । “प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिमण्डलमन्यतो वितानम् ॥”)
षिड्गः । इति मेदिनी । रे, ६२ ॥ गुल्गुलुः । इति शब्दरत्नावली ॥ पतिः । इति हेमचन्द्रः । ३ । १८० ॥ (निग्रहः । यथा, ऋग्वेदे । १ । १४३ । ५ । “न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ॥” “योऽग्निर्वराय वरणाय निग्रहाय शक्तो न भवति ॥” इति तद्भाष्ये सायणः ॥)