संस्कृत-शब्दकोशः

वर वरक्रतु

वरक

वाचस्पत्यम्

वरक ||‍ पु० वृ—वुन् । १ वनमुद्गे हेमच० २ पर्पटे ३ तृण- धान्यभेदे (चीना) च राजनि० । ४ पोताच्छादनवस्त्रे न० हारा० ।


शब्दकल्पद्रुमः

वरकं || क्ली (व्रियते अनेन । वृ + अप् । ततः संज्ञायां कन् ।)
पोताच्छादनम् । इति हारा- वली । ६९ ॥ धौताधौतसाधारणवस्त्रम् । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

वरकः || पुं, (व्रियते लोकैरिति । वृ + अप् । ततः कन् ।)
वनमुद्गः । इति हेमचन्द्रः । ४ । २३९ ॥ पर्प्पटः । इति राजनिर्घण्टः ॥ तृणधान्यभेदः । चीना इति भाषा । तत्पर्य्यायः । स्थूलकङ्गुः २ रूक्षः ३ स्थूलप्रियङ्गुः ४ । अस्य गुणाः । मधु- रत्वम् । रूक्षत्वम् । कषायत्वम् । वातपित्त- कारित्वञ्च । इति राजनिर्घण्टः ॥ (वर + स्वार्थे कन् । प्रार्थनाविशेषः । यथा, महाभारते । ३ । १०७ । ५३ । “स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् । द्बितीयं वरकं वव्रे पितॄणां पावनेच्छया ॥”)



Correction: