संस्कृत-शब्दकोशः

वरचन्दन वरटा

वरट

वाचस्पत्यम्

वरट ||‍ न० वृ—अटन् । १ कुन्दपुष्पे शब्दर० । २ कीटमेदे (वोलता) २ हसे पुंस्त्री० मेदि० । स्त्रियाम् अजादि० टाप् अमरः । ङीष् मेदि० । ४ कुसुम्भवीजे भावप्र० । सा च ५ गन्धोल्यां मेदि० ।


शब्दकल्पद्रुमः

वरटं || क्ली (व्रियते इति । वृ + “शकादिभ्यो- ऽटन् ।” उणा० ४ । ८१ । इति अटन् ।)
कुन्दपुष्पम् । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

वरटः || पुं, (वरति सेवते सरोवरमिति । वृ ञ सेवायाम् + “शकादिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।)
हंसः । इति मेदिनी । टे, ५१ ॥ कीटविशेषः । वोल्ता इति भाषा । तत्पर्य्यायः । गन्धोली २ वरटा ३ । इत्यमरः ॥ गन्धोलिः ४ वरला ५ । इति शब्दरत्नावली । वरली ६ । इति जटाधरः ॥ क्षुद्रा ७ क्रूरा ८ क्षुद्रवर्व्वणा ९ । इति राजनिर्घण्टः ॥



Correction: