शब्दकल्पद्रुमः
वरटा || स्त्री (वरट + टाप् ।)
हंसी । (यथा, नैषधे । १ । १३५ । “मदेकपुत्त्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी ॥”)
वरला । इत्यमरः । २ । ५ । २५ ॥ कुसुम्भ- बीजम् । इति भावप्रकाशः ॥ (श्चस्या गुणा यथा, —
“वरटा मधुरा स्निग्धा रक्तपित्तकफापहा । कषाया शीतला गुर्व्वी स्यादवृष्यानिलापहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)