संस्कृत-शब्दकोशः

वरणसी वरण्ड

वरणा

शब्दकल्पद्रुमः

वरणा || स्त्री (वरण + टाप् ।)
नदीविशेषः । इति शब्दरत्नावली ॥ सा तु वाराणस्युत्तर- सीमा । तस्या उत्पत्तिर्यथा, — हरिरुवाच । “महेश्वर शृणुष्वेमां मम वाचं कलस्वनाम् । ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्द्धिनीम् ॥ योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः । प्रयागे वसते नित्यं योगशायी तु विश्रुतः ॥ चरणाद्दक्षिणात्तस्य विनिर्याता सरिद्वरा । विश्रुता वरणेत्येवं सर्व्वपापहरा शुभा ॥ सव्यादन्या द्वितीया च असिरित्येव विश्रुता । ते उभे च सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥ ताभ्यां मध्ये तु यो देशस्तत् क्षेत्रं योगशायिनः । त्रैलोक्यप्रभवं तीर्थं सर्व्वपापप्रमोचनम् ॥ न तादृशोऽस्ति गगने न भूम्यां न रसातले । तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा । यस्यान्तु भोगिनो नाशं प्रयान्ति भवतो लयम् ॥” इति वामने ३ अध्यायः ॥



Correction: