संस्कृत-शब्दकोशः

वरण्ड वरण्डा

वरण्डक

वाचस्पत्यम्

वरण्डक ||‍ पुंन० वृ—अण्डच् संज्ञायां क । १ वरण्डशब्दार्थे २ वर्तुले मेदि० । ३ भित्तौ हेमच० । ४ विशाले ५ कृपणे ६ भीते च त्रि० शब्दर० ।


शब्दकल्पद्रुमः

वरण्डकः || त्रि (वरण्ड + कन् ।)
विशालः । भय- सम्पन्नः । कृपणः । इति शब्दरत्नाशली ॥


शब्दकल्पद्रुमः

वरण्डकः || पुं, (वरण्ड + स्वार्थे संज्ञायां वा कन् ।)
मातङ्गवेदिः । हातीर हाओदा इति भाषा । यौवनकण्टकः । वयस् फोडा इति भाषा । वर्त्तुलः । गोल इति ख्यातः । इति मेदिनी । के, २०३ ॥ भित्तिः । इति हेमचन्द्रः ॥ मेदिनी- कारेण अयं पवर्गीयबकारादौ लिखितः । किन्तु हेमचन्द्रेन वृञ्धातुनिष्पन्नत्वात् अन्तःस्थ- वकारादौ परिगणितः ॥



Correction: