संस्कृत-शब्दकोशः

वरणा वरण्डक

वरण्ड

वाचस्पत्यम्

वरण्ड ||‍ पु० वृ—अण्डच् (वयसफोडा) १ मुखरोगभेदे मातङ्ग युद्धार्थे मध्यवेदौ च मेदि० ।


शब्दकल्पद्रुमः

वरण्डः || पुं, (वृणोतीति । वृ + “अण्डन्कृसृभृ- वृञः ।” उणा० १ । १२८ । इति अण्डन् ।)
अन्तरावेदिः । समूहः । मुखरोगः । स तु व्रण इति वयस् फोडा इति च भाषा । इति मेदिनी । डे, ३३ ॥ तन्मते पवर्गीयबकारादिरयं किन्तु अन्तःस्थवकारादिवृञ्धातोरौणादिक अण्डन् प्रत्ययनिष्पन्नत्वादत्र लिखितः ॥



Correction: