शब्दकल्पद्रुमः
वरतिक्तिका || स्त्री (वरतिक्त + स्वार्थे कन् । टाप् । अत इत्वम् ।)
पाठा । इति राजनिर्घण्टः ॥ आकनादि इति भाषा ॥ (यथास्याः पर्य्यायः । “पाठावष्टावष्टकीच प्राचीना पापचेलिका । एकष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)