वाचस्पत्यम्
वरत्रा || स्त्री वृ—अत्रच् । हस्तिकक्षस्थरज्जौ अमरः ।
शब्दकल्पद्रुमः
वरत्रा || स्त्री (व्रियतेऽनयेति वृ + “वृञश्चित् ।” उणा० ३ । १०७ । इति अत्रन् । टाप् ।)
हस्ति- कक्षरज्जुः । काछदडी इति ख्याता । तत्पर्य्यायः । चूषा २ कक्ष्या ३ कक्षा ४ । चर्म्मरज्जुः । तत्- पर्य्यायः । नद्ध्री २ वद्ध्री ३ वर्द्ध्री ४ वाद्ध्री ५ । इत्यमरभरतौ ॥ (यथा, ऋग्वेदे । १० । ६० । ८ । “यथायुगं वरत्रया नह्यति धरुणायकम् ॥”)