वाचस्पत्यम्
वररुचि || त्रि० वरा रुचियेस्य । १ श्रेष्ठप्रीतियुते । २ पाणिनि- सूत्रवार्त्तिककारे कात्यायनमुनो त्रिका० । ३ विक्रमादित्य- सभास्थे पण्डितभेदे च । नवरत्नशब्दे ३९९२ पृ० दृश्यम ।
शब्दकल्पद्रुमः
वररुचिः || पुं, (वरा रुचिरस्य ।)
कविविशेषः । तत्पर्य्यायः । पुनर्व्वसुः २ । इति त्रिकाण्डशेषः ॥ स च विक्रमादित्यराजसभास्थनवरत्नान्तर्गत- रत्नविशेषः यथा, —
“धन्वन्तरिः क्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै ववरुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥