संस्कृत-शब्दकोशः

वरंवरा वरवाह्लीक

वरवर्णिनी

वाचस्पत्यम्

वरवर्णिनी ||‍ स्त्री वरः श्रेष्ठो वर्णः प्रशंसाऽस्त्यस्याः इति । उत्तमस्त्रियाम् अमरः । २ लाक्षायां ३ हरिद्रायां ४ रो- चनायां ५ फलिन्यां ६ साध्व्यां स्त्रियां मेदि० । ७ गौर्य्यां ८ लक्ष्म्यां ९ पार्वत्यां च शब्दर० ।


शब्दकल्पद्रुमः

वरवर्णिनी || स्त्री (वरः श्रेष्ठो वर्णः प्रशस्तः पीता- दिर्वास्त्यस्या इति । वरवर्ण + इनिः । ङीप् ।)
अत्युत्तमा स्त्री । तत्पर्य्यायः । वरारोहा २ मत्तकामिनी ३ उत्तमा ४ । इत्यमरः । २ । ६ । ४ ॥ मत्तकाशिनी ५ । इति भरतः ॥ (यथा, विष्णुपुराणे । १ । १५ । ७ । “रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यत् जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥”)
लाक्षा । हरिद्रा । रोचना । फलिनी । साध्वी स्त्री । इति मेदिनी । ने, २४३ । गौरी ॥ (यथा, महाभारते । ६ । २२ । २१ । “भद्रकालि ! नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि ! चण्डे ! नमस्तुभ्यं तारिणि ! वर- वर्णिनि ! ॥”)
सरस्वती । लक्ष्मीः । इति शब्दरत्नावली ॥



Correction: