वाचस्पत्यम्
वरा || स्त्री वृ—अच् । हरितक्यामलकीवयस्थारूपे फलत्रिके मेदि० । २ रेणुकानासगन्धद्रव्ये शब्दच० । ३ मुडूच्याम् ४ मेदायां ५ ब्राह्म्याम् ६ विडङ्गे ७ पाठायाम् ८ हरिद्रा- याञ्च राजनि० ।
शब्दकल्पद्रुमः
वरा || स्त्री (वृ + अप् + टाप् ।)
फलत्रिकम् । इति मेदिनी । रे, ६३ ॥ रेणुकानामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ गुडूची । मेदा । ब्राह्मी । विडङ्गम् । पाठा । हरिद्रा । इति राज- निर्घण्टः ॥ श्रेष्ठा च ॥