संस्कृत-शब्दकोशः

वरा वराङ्ग

वराक

वाचस्पत्यम्

वराक ||‍ पु० वृ—षाकन् । १ शिवे मेदि० । २ युद्धे न० हेमच० । ३ अवरे त्रि० शब्दर० । ४ शोचनीये च त्रि० मेदि० खियां ङीष् ।


शब्दकल्पद्रुमः

वराकः || त्रि (वृ + “जल्पभिक्षेति ।” ३ । २ । १५५ । इति षाकन् ।)
शोचनीयः । इति मेदिनी । के, १२९ ॥ अवरः । इति शब्द- माला ॥ (यथा, मुकुन्दमालायाम् । १७ । “नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं मेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥”)


शब्दकल्पद्रुमः

वराकः || पुं, (वृणीते तच्छील इति । वृ + “जल्प- भिक्षकुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति षाकन् ।)
शिवः । इति मेदिनी । के, १२९ ॥ युद्धम् । इति हेमचन्द्रः ॥



Correction: