वाचस्पत्यम्
वराट || पु० वरमल्पमटति अट—अण् । १ कपर्दे राजनि० । २ रज्जौ च पु० रत्नको० । स्वार्थे क । तत्रार्थे “वराटकानां दशकद्वयं यत्” लीला० अट—ण्वुल् । वराटक पद्मवीजा- धारे कोषे पु० अमरः ।
शब्दकल्पद्रुमः
वराटः || पुं, (वरं मन्दमटतीति । अट् + कर्म्मणि अण् ।)
कपर्द्दकः । इति राजनिर्घण्टः ॥ (अस्य शोधनादिविषयो यथा, —
“भूगर्त्ते च समे शुद्धे पत्तलीं स्थापयेत् सुधीः । तुषेण पूरयेत्तस्याः किञ्चिन्मध्यं भिषम्बरः ॥ वराटैः पूरितां मूषां तन्मध्ये विनिवेशयेत् । कारोषाग्निं ततो दद्यात् पालिका यन्त्रमुत्त- मम् । न्मनेन म्रियते नूनं वराटः सर्व्वरोगजित् ॥” * ॥
अन्यच्च । “वराटं तत्र चाङ्गेरी जम्बीराणां रसेन वा । अन्येषोमपि चाम्लानां यावत् पीतं न गच्छति । पश्चादुद्धृत्य प्रक्षाल्य गृह्णीयाच्च वराटकम् ॥” इति वराटशुद्धिः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)
रज्जुः । यथा । रज्जुः शुल्ला वराटो ना । इति स्त्रीकाण्डे रत्नकोषः । इत्यमर- टीकायां भरतः ॥