शब्दकल्पद्रुमः
वराटकः || पुं स्त्री, (वराट् + स्वार्थे कन् ।)
कप- र्द्दकः । इत्यमरः ॥ कडि इति भाषा । तस्य संख्याभेदेन सं ज्ञामेदा यथा, —
“वराटकानां दशकद्वयं यत् सा काकिनी ताश्च पणश्चतस्रः । ते षोडश द्रम्य इवावगम्यो द्रन्यैस्तथा षोडशभिश्च निष्कः ॥” इति लीलावती ॥ * ॥
अपि च । ताम्रिकः कार्षिकः पणः । इति याज्ञवल्क्यवचनेन गुञ्जाः पञ्चाद्यमाषकस्ते षोडशाक्षः कर्षोऽस्त्री । इत्यमरसिंहोक्तेन च अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्के- तितः स च तावत्संख्यकवराटकैर्लभ्यते इति वराटकेष्वपि तथा व्यवहारः । एतन्मूलकं भविष्यमत्स्यतन्त्रयोर्व्वचनं यथा, —
“अशीतिभिर्व्वराटकैः पण इत्यभिधीयते । तैः षोडशैः पुराणं स्याद्रजतं सप्तभिस्तु तैः ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
ते च दक्षिणार्थं विधीयन्ते । यथा, —
“हतमश्रोत्रियं दानं हतो यज्ञस्त्वदक्षिणः । तस्मात् पणं काकिणीं वा फलं पुष्पमथापि वा । प्रदद्यात् दक्षिणां यज्ञे तया स सफलो भवेत् ॥” इति शुद्धितत्त्वम् ॥
शब्दकल्पद्रुमः
वराटकः || पुं, (वराट एव । स्वार्थे कन् ।)
रज्जुः । पद्मबीजम् । इति मेदिनी । के, २०२ ॥