शब्दकल्पद्रुमः
वराणसी || स्त्री (वाराणसी पृषोदरादित्वत् साधु ।) काशी । यथा, — “काशी वराणसी वाराणसी शिवपुरी च सा ॥” इति हेमचन्द्रः ॥