वाचस्पत्यम्
वरादन || न० वरैर्नृपैरद्यते अद—ल्युट् । राजादने (पिया- साल) शब्दच० ।
शब्दकल्पद्रुमः
वरादनं || क्ली (वरै राजभिरद्यते इति । अद् + ल्युट् ।) राजादनम् । इति शब्दचन्द्रिका ॥