वाचस्पत्यम्
वरासि || पु० वरायावरणायास्यते अस—इन् । १ स्थूलवस्त्रे २ खङ्गधरे च धरणिः ।
शब्दकल्पद्रुमः
वरासिः || पुं, (वरैः श्रेष्ठैः अस्यते क्षिप्यते इति । अस् + इन् ।) स्थूलशाटकः । (वरोऽसिर्यस्य ।) खड्गधरः । इति धरणिः ॥