वराहिका
वरिवसित
वराही
वाचस्पत्यम्
वराही || स्त्री वराहो भक्षकत्वेनास्त्यस्या अच् गौरा० ङीष् । १ भद्रमुस्तायाम् २ वराहकन्दे च राजनि० ।
शब्दकल्पद्रुमः
वराही || स्त्री (वराहो भक्षकत्वेनास्त्यस्येति । अच् । गौरादित्वात् ङीष् ।)
भद्रमुस्ता । शूकरकन्दः । इति राजनिर्घण्टः ॥