वाचस्पत्यम्
वरिवस्या || स्त्री वरिवम् + कृत्यर्थे क्यच्—भावे अ । १ पूजने २ शुश्रूषायाम् अमरः ।
शब्दकल्पद्रुमः
वरिवस्या || स्त्री (वरिवसः पूजायाः करणम् । वरिवस् + “नमोवरिवश्चित्रङः क्यच् ।” ३ । १ । १९ । इति क्यच् । “अ प्रत्ययात् । ३ । ३ । १०२ । इत्यः । टाप् ।)
शुश्रूषा । इत्यमरः । २ । ७ । ३५ ॥ (यथा, ऋग्वेदे । १ । १८१ । ९ । “हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥”)