वाचस्पत्यम्
वरिवस्यित is an alternate of वरिवसित. वरिवसि(स्यि)त || त्रि० वरिवः पूजनं करोति क्यच्—क्त वा नलोपः । पूजिते अमरः ।
शब्दकल्पद्रुमः
वरिवस्यितः || त्रि (वरिवस्या संजाता अस्य तारकादित्वादितच् । यद्वा, वरिवस्य + क्तः । “क्यस्य विभाषा ।” ६ । ४ । ५० । इति पक्षे यलोपा- भावः ।)
उपासितः । इत्यमरः । ३ । १ । १०२ ॥