वाचस्पत्यम्
वरुट || पुंस्त्री० म्लेच्छजातिविशेषे स्त्रियां ङीष् । “पुलिन्दा नाहला निष्ट्याः शवरा वरुटा भटाः । मालाः भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातय” हेमच० ।
शब्दकल्पद्रुमः
वरुटः || पुं, म्लेच्छजातिविशेषः । यथा, —
“पुलिन्दा नाहला निष्ट्याः शवरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्व्वेऽपि म्लेच्छ- जातयः ॥” इति हेमचन्द्रः ॥