संस्कृत-शब्दकोशः

वरुणात्मजा वरुत्र

वरुणानी

वाचस्पत्यम्

वरुणानी ||‍ स्त्री वरुणस्य पत्नी ङीष् आनुक् च । वरुणपत्न्याम् जटा० ।


शब्दकल्पद्रुमः

वरुणानी || स्त्री (वरुणस्य पत्नी । वरुण + “इन्द्र- वरुणभवेति ।” ४ । १ । ४९ । इति ङीष् आनु- गागमश्च ।)
वरुणपत्नी । इति जटाधरः ॥ (यथा, ऋग्वेदे । १ । २२ । १२ । “इहेन्द्राणीमुपहूये वरुणाणीं स्वस्तये । अग्नायीं सोमपीतये ॥”)



Correction: