संस्कृत-शब्दकोशः

वरूथ वरेण्य

वरूथिनी

वाचस्पत्यम्

वरूथिनी ||‍ स्त्री वरूथोऽस्त्यस्याः इनि । सेनायाम् अमरः ।


शब्दकल्पद्रुमः

वरूथिनी || स्त्री (वरूथं तनुत्राणादिकमस्त्यस्या इति । वरूथ + इनिः । ङीप् ।)
सेना । इत्य- मरः । २ । ८ । ७८ ॥ (यथा, रघुः । ११ । ५८ । “तस्य जातु मरुतः प्रतीपगाः वर्त्मसु ध्वजतरुप्रमाथिनः । चिक्लिशुर्भृशतया वरूथिनी- मत्तटा इव नदीरयाः स्तलीम् ॥”)



Correction: