वाचस्पत्यम्
वरेण्य || न० वृ—एन्य । १ कुङ्कुमे राजनि० २ प्रधाने ३ प्रार्थ- नीये च त्रि० अमरः ।
शब्दकल्पद्रुमः
वरेण्यं || क्ली (व्रियते लोकैरिति । वृ + “वृञ एण्यः ।” उणा० ३ । ९८ । इति एण्यः ।)
कुङ्कुमम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वरेण्यः || त्रि (वृ + एण्यः ।)
प्रधानः । इत्य- मरः । ३ । १ । ५७ ॥ (यथा, भट्टिः । १ । ४ । “पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ॥” वरणीयः । इति मल्लिनाथः ॥ यथा, कुमारे । ७ । ९० । “संस्कारपूतेन वरं वरेण्यं बधूं सुखग्राह्यनिबन्धनेन ॥” पु, पितृगणानामन्यतमः । यथा, मार्कण्डेये । ९६ । ४५ । “वरो वरेण्यो वरदो पुष्टिदस्तुष्टिदस्तथा ॥” भृगुपुत्त्रविशेषः । यथा, महाभारते । १३ । ८५ । १२९ । “भृगोस्तु पुत्त्राः सप्तासन् सर्व्वे तुल्या भृगो- र्गुणैः । च्यवनो वज्रशीर्षश्च शुचिरौर्व्वस्तथैव च । शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ॥” महादेवः । यथा, तत्रेव शिवसहस्रनाम- कीर्त्तने । १३ । १७ । १३६ । “वरो वराहो वरदो वरेण्यः सुमहास्वनः ॥”)