वाचस्पत्यम्
वर्गोत्तम || पु० वर्गेषु षट्सु क्षेत्रादिषु उत्तमः मवांशः । “चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा । ह्यात्म- कानाञ्च नवमे वर्गोत्तम इति स्मृतः” इति ज्योतिषोक्ते त्रिंशांशकात्मकराशेर्नवांशभेदे ।
शब्दकल्पद्रुमः
वर्गोत्तमः || पुं, (वर्गेषु उत्तमः ।)
चराणां अर्थात् मेषकर्क्कटतुलामकरराशीनां प्रथमोऽंशः । स्थिराणां अर्थाद्वृषसिंहवृश्चिककुम्भराशीनां पञ्चमोऽंशः । द्व्यात्मकानां अर्थात् मिथुनकन्या- धनुर्मीनराशीनां नवमोऽंशश्च । यथा, —
“चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा । नवमे द्व्यात्मकानाञ्च वर्गोत्तम इति स्मृतः ॥” अपि च । राशीनां स्वकीयनवांशः । यथा, —
“स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः ॥” इति ज्योतिस्तत्त्वम् ॥