संस्कृत-शब्दकोशः

वर्च वर्चस्क

वर्चस्

वाचस्पत्यम्

वर्चस् ||‍ न० वर्च—असुन । १ रूपे २ शुक्रे ३ तेजसि ४ विष्ठा- याञ्च मेदि० । ५ चन्द्रपुत्रे पु० “रोहिण्यामभवद्वर्च्चा वर्चम्बी येन चन्द्रमा” वह्निपु० । स्वार्थे क । विष्ठायाम् अमरः ।


शब्दकल्पद्रुमः

वर्च्चः || [स्] क्ली, (वर्च्चते इति । वर्च्च + “सर्व्व- धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
रूपम् । विष्ठा । (यथा, सुश्रुते उत्तरतन्त्रे ४० अध्याये । “शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्त्रस्तापानः सन्नकट्यूरुजङ्घः । वर्च्चो मुञ्चत्यल्पमल्पं सफेनं रुक्षं श्यावं सानिलं मारुतेन ॥”)
तेजः । इति मेदिनी । से, ३५ ॥ (यथा, ऋग्- वेदे । ९ । ६६ । २१ । “अग्ने पवस्व स्वपा अस्मे वर्च्चः सुवीर्य्यम् ॥” “वर्च्चः तेजः ।” इति तद्भाष्ये सायणः ॥ अन्नम् । यथा तत्रैव । ३ । २४ । १ । “अग्ने सहस्व पृतना अभिमातीरपास्य । दुष्टरस्तरन्नरातीर्वर्च्चोधायज्ञ वाहसे ॥” “वर्च्चोधाः अन्नं धेहि ।” इति तद्भाष्ये रायणः ॥)



Correction: