शब्दकल्पद्रुमः
वर्च्चस्कः || पुं, क्ली, (वर्च्चस् + स्वार्थे कन् ।) विष्ठा । इत्यमरः । २ । ६ । ६८ ॥ (दीप्तिः । यथा, महाभारते । १३ । २५ । १९ ॥ “देविकायामुपस्पृश्य तथा सुन्दरिकह्रदे । अश्विन्यां रूपवर्च्चस्कं प्रेत्य वै लभते नरः ॥”)