संस्कृत-शब्दकोशः

वर्जन वर्जित

वर्जनीय

शब्दकल्पद्रुमः

वर्ज्जनीयं || त्रि (वृज् + अनीयर् ।)
वर्ज्जनयोग्यम् । त्यक्तव्यम् । वर्ज्जनीयान्नं यथा, —
“राजान्नं नर्त्तकान्नञ्च तक्ष्णोऽन्नञ्चक्रकारिणः । गणान्न गणिकान्नञ्च षण्डान्नञ्चैव वर्ज्जयेत् ॥ चक्रोपजीविरजकतस्करध्वजिनान्तथा । गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्ज्जयेत् ॥ कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य च । पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि ॥ सुवर्णकारशैलूषव्याधितस्यातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य च ॥ स्तेननास्तिकयोरन्नं देवतानिन्द कस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजिनः ॥ अपाङ्क्तान्नञ्च संघान्नं शस्त्राजीवस्य चैव हि । क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि ॥ भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षितम् । ब्रह्मद्बिषः पापरुचेः श्राद्धान्नं मृतकस्य च ॥ वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च । अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि ॥ कन्दुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा । शौण्डान्नं घटकान्नञ्च भिषजामन्नमेव च ॥ विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च । पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ॥ अवज्ञातञ्चावधृतं सरोषं विस्मयान्वितम् । गुरोरपि न भोक्तव्यं अन्नं सत्कारवर्ज्जितम् ॥ दुष्कृतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्वि- षम् ॥” इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः ॥



Correction: