वाचस्पत्यम्
वर्ण्णक || न० वर्णयति वर्ण—ण्वुल् । १ हरिताले रत्नमा० २ अनु लेपनयोग्ये अमरः ३ पिष्टे ४ घृष्टे वा चन्दनादौ द्रव्ये च । ५ हिङ्गलादौ पुंस्त्री० भरतः ६ मण्डने शब्दर० । एकस्यैव सूत्रादेः पक्षान्तरव्याख्यानरूपे ५ ग्रन्थभेदे न० “लिप्सासूत्रे तृतीयवर्णके” मिता० । ८ चारणे पु० मेदि० ।
शब्दकल्पद्रुमः
वर्णकं || क्ली (वर्णयतीति । वर्ण + ण्वुल् ।)
हरि- तालम् । इति रत्नमाला ॥ गात्रानुलेपनयोग्यं पिष्टं घृष्टं वा सुगन्धिद्रव्यम् । इत्यमरः ॥ चन्द- नम् । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
वर्णकः || पुं, (वर्णयति नृत्यादीन् विस्तारयतीति । वर्ण + ण्वुल् ।)
चारणः । इति मेदिनी । के, ५२ । मण्डलम् । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
वर्णकः || पुं, क्ली, (वर्ण + स्वार्थे संज्ञायां वा कन् ।)
विलेपनम् । चन्दनम् । इति मेदिनी । के, १५२ ॥ (यथा, महाभारते । १३ । १११ । १०७ । “वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः । छुछुन्दरित्वमाप्नोति राजन् ! लोभपरायणः ॥”)
शब्दकल्पद्रुमः
वर्णकः || पुं, स्त्री, (वर्ण्यते रज्यतेऽनेनेति । वर्ण + घञ् । स्वार्थे कन् ।)
हिङ्गुलहरितालकाचनीली- कादिः । इत्यमरभरतौ ॥ (यथा, आर्य्यासप्त- शत्याम् । १८९ । “कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः । क्रो भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥”)