वाचस्पत्यम्
वर्ण्णचारक || पु० वर्णं शुक्लादिरूपं चारयति चर—णिच्- ण्वुल् । चित्रकरे शब्दमा० ।
शब्दकल्पद्रुमः
वर्णचारकः || त्रि (वर्णान् नीलादीन् चारयति विस्तारयतीति । चर + णिच् + ण्वुल् ।) चित्र- कारः । इति शब्दमाला ॥