वाचस्पत्यम्
वर्णधर्म्म || पुंन० ६त०। विप्रादीनामसाधारणे धर्मे यथा विप्रस्य याजनाध्यापनप्रतिग्रहादिः । क्षत्रियस्य प्रजा- पालनादिः पु० जातिधर्मशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वर्णधर्म्मः || पुं, क्ली, (वर्णानां ब्राह्मणादीनां धर्म्मः ।)
ब्राह्मणक्षत्त्रियवैश्यशूद्राणां कर्त्तव्यं कर्म्म । तद्- यथा, —
“यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः । अध्यापनं चाध्ययनं षट्कर्म्माणि द्विजोत्तमाः ॥ दानमध्ययनं यज्ञो धर्म्मं क्षत्त्रियवैश्ययोः । दण्डो युद्धं क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥ शुश्रूषैव द्विजातीनां शूद्राणां वर्णसाधनम् । कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥ क्षमा दमो दया दानमलोभस्त्याग एव च । आर्ज्जवं चानसूया च तीर्थानुसरणं तथा ॥ सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥ अहिंसा प्रियवादित्वमपैशुन्यमकल्कता । समासिकमिमं धर्म्मं चातुर्व्वर्णेऽब्रवीन्मुनिः ॥ प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया- वताम् । स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् । गान्धर्व्वं शूद्रजातीनां परिचारे तु वर्त्तताम् ॥” इति कौर्म्मे २ अध्यायः ॥ * ॥
अपि च । मार्कण्डेय उवाच । “हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः । शृण्वन्तु मुनयः सर्व्वे धर्म्मान् वक्ष्यामि शाश्व- तान् ॥ वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः । यज्ज्ञात्वा मुनयो नित्यं मुच्यते जन्मबन्धनात् ॥ ब्राह्मण्यां ब्राह्मणेनैव उत्पन्नो ब्राह्मणः स्मृतः । तस्य धर्म्मं प्रवक्ष्यामि तं योग्यं देशमेव च ॥ कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते । तस्मिन् देशे वसन् धर्म्मं कुरुते ब्राह्मणोत्तमः ॥ अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं पतिग्रहश्चैव कर्म्मषट्कमिहोच्यते ॥ अध्यापनञ्च त्रिविधं धर्म्मार्थं चात्मकारणम् । शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितम् ॥ नैषामन्यतमो वापि दृश्यते यत्र मानवे । तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥ योग्यानध्यापयेच्छिष्यान् यज्ञानपि च योजयेत् । विदितान् प्रतिग्रहानिच्छेद्गृहधर्म्मप्रसिद्धये ॥ वेदमेवाभ्यसेन्नित्यं शुचौ देशे समाहितः । यजेद्यज्ञं यथाशक्त्या दद्याद्बित्तानुसारतः ॥ नित्यं नैमित्तिकं धर्म्मं कर्म्म कुर्य्यात् प्रयत्नतः । गुरुशुश्रूषणञ्चैव यथान्यायमतन्द्रितः ॥ सार्य प्रातरुपासीत विधिनाग्निं द्विजोत्तमः । कृतस्नानः प्रकुर्व्वीत वैश्वदेवं दिने दिने ॥ अतिथिञ्चागतं भक्त्या पूजयेच्छक्तितो गृही । अन्यानप्यागतान् विप्रान् पूजयेदविरोधतः ॥ स्वदारनिरतो नित्यं परदारविवर्ज्जितः । सत्यवादी जितक्रोधः स्वधर्म्मनिरतो भवेत् ॥ अकर्म्मणि च संप्राप्ते प्रमादे नैव रोचयेत् । प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम् ॥ एष धर्म्मः समुद्दिष्टो ब्राह्मणस्य समासतः । धर्म्ममेवन्तु यः कुर्य्यात् स याति ब्रह्मणः पदम् ॥ हारीत उवाच । क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्ब्बशः । येन येन प्रवर्त्तन्ते विधिना क्षत्त्रियादयः ॥ राजा च क्षत्त्रियश्चैव प्रजा धर्म्मेण पालयेत् । कुर्य्यादध्ययनं सम्यक् युगयुक्तो यथाविधि ॥ दद्याद्दानं द्बिजाग्रेभ्यो धर्म्मबुद्धिसमन्वितः । देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ॥ धर्म्मेण वै जयाकाङ्क्षी अधर्म्मस्य विवर्जयेत् । उत्तमां गतिमाप्नोति क्षत्त्रियो ह्येवमाचरन् ॥ * ॥
गोरक्षं कृषिबाणिज्यं कुर्य्याद्बैश्यो यथाविधि । दानं धर्म्मं यथाशक्त्या द्बिजशुश्रूषणं तथा ॥ लोभदम्भविनिर्म्मुक्तः सत्यवागनसूयकः । स्वदारनिरतो दान्तः परदारविवर्ज्जितः ॥ धनैर्विप्रान् समभ्यर्च्च्य यज्ञकाले त्वयाचितः । अप्रमत्तः स्वधर्म्मेषु वर्त्तेत देहपातनात् ॥ यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः । पितृकार्य्यञ्च तत्काले नारसिंहार्च्चनं तथा ॥ एतद्वैश्यस्य कर्म्मोक्तं स्वधर्म्ममनुतिष्ठतः । एतदासेव्यमानस्तु मुक्तः स्यान्नात्र संशयः ॥ * ॥
वर्णत्रयस्य शुश्रूषां कुर्य्यात् शूद्रः प्रयत्नतः । दासवत् ब्राह्मणानान्तु विशेषेण समाचरेत् ॥ अयाचितः प्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् । पाकयज्ञविधानेन यजेद्देवानतन्द्रितः ॥ शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् । धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम् ॥ स्वदारेषु रतिश्चैव परदारविवर्ज्जितः । पुराणश्रवणं विप्रान्नारसिंहस्य पूजनम् ॥ तथा विप्रनमस्कारस्तथा सत्रं दिने दिने । सत्यं सम्भाषणं चैव रागद्वेषविवर्ज्जनम् ॥ इत्थं कुर्व्वंस्तथा शूद्रो मनोवाक्कायकर्म्मभिः । स्थानमन्द्रमवाप्नोति त्यक्तपापः प्रपुण्यकृत् ॥” इति नारसिंहे ५३ । ५४ अध्यायौ ॥ * ॥
अन्यच्च । मदालसोवाच । “दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधोदितः । धर्म्मो नान्यश्चतुर्थोऽस्ति धर्म्मस्तस्यापदं विना ॥ याजनाध्ययने यज्ञस्तथा पुत्त्र प्रतिग्रहः । एतत् सम्यक् समाख्यातं त्रितयं चास्य जीविका ॥ दानमध्ययनं यज्ञः क्षत्त्रियस्याप्ययं त्रिधा । धर्म्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवश्च जीविका ॥ दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः । बाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका ॥ दानं यज्ञोऽथ शुश्रूषा द्बिजातीनां त्रिधा मया । व्याख्यातः शूद्रधर्म्मोऽपि जीविका कारुकर्म्मजा ॥ तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयैः । वर्णधर्म्मास्त्विमे प्रोक्ताः श्रूयतामाश्रमास्त्रयः ॥” इति मार्कण्डेयपूराणे मदालसानुशासनाध्यायः ॥ अपरञ्च । “ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट्कर्म्माणि यथाक्रमम् ॥ अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट् कर्म्माण्यग्रजन्मनः षण्णान्तु कर्म्मणामस्य त्रीणि कर्म्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ त्रयो धर्म्मा निवर्त्तन्ते ब्राह्मणात् क्षत्त्रियं प्रति । अध्यापनं याजनञ्च तृतीयश्च प्रतिग्रहः ॥ वैश्यं प्रति तथैवैते निवर्त्तेरन्निति स्थितिः । न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा- पतिः ॥ शस्त्रास्त्रभृत्त्वं क्षत्त्रस्य वणिक्पशुकृषिर्विशः । आजीवनार्थं धर्म्मस्तु दानमध्ययनं यजिः ॥ वेदाभ्यासो ब्राह्मणस्य क्षत्त्रियस्य च रक्षणम् । वार्त्ताकर्म्मैव वैश्यस्य विशिष्टानि स्वकर्म्मसु ॥ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्म्मणा । जीवेत् क्षत्त्रियधर्म्मेण स ह्यस्य प्रत्यनन्तरः ॥ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥ वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्त्रियोऽपि वा । हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता । भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ इदन्तु वृत्तिवैकल्यात् त्यजतो धर्म्मनैपुणम् । विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम् ॥ सर्व्वान्रसानपोहेत कृतान्नञ्च तिलः सह । अश्मनो लवणञ्चैव पशवो ये च मानुषाः ॥ सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ आरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलीञ्च लाक्षाञ्च सर्व्वांश्चैकशफांस्तथा ॥ काममुत्पाद्य कृष्यान्तु स्वयमेव कृषीवलः । विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर- स्थितान् ॥ भोजनाभ्यञ्जनाद्दानाद्यदन्यत् कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ॥ इतरेषान्तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नञ्चाकृतान्नेन तिला ध्यान्येन तत्समाः ॥ जीवेदेतेन राजन्यः सर्व्वेणाप्यनयङ्गतः । न त्वेव ज्यायसीं वृत्तिमभिमन्येत कर्हिचित् ॥ यो लोभादधमो जात्या जीवेदुत्कृष्टकर्म्मभिः । तं राजा निर्द्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ वरं स्वधर्म्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्म्मेण जीवन् हि सद्यः पतति जातितः ॥ वैश्योऽजीवन् स्वधर्म्मेण शूद्रवृत्त्यापि वर्त्तयेत् । अनाचरन्नकार्य्याणि निवर्त्तेत च शक्तिमान् ॥ अशक्नुवंश्च शुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम् । पुत्त्रदारात्ययं प्राप्तो जीवेत कारुकर्म्मभिः ॥ वैकर्म्मभिः प्रचरितैः श्रुश्रूष्यन्ते द्बिजातयः । तानि कारुककर्म्माणि शिल्पानि विविधानिच ॥ वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः । अवृत्तिकर्षितः सीदन्निमं धर्म्भं समाचरेत् ॥ सर्व्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयङ्गतः । पवित्रं दुष्यतीत्येतत् धर्म्मतो नोपपद्यते ॥ नाध्यापनाद्याजनाद्वा गर्हिताद्बा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ अजीगर्त्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ श्वमांसमिच्छन्नार्त्तोऽत्तुं धर्म्माधर्म्मविचक्षणः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ भरद्वाजः क्षुधार्त्तस्तु सपुत्त्रो विजने वने । बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥ क्षुधार्त्तश्चात्तुमभ्यागाद्बिश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धम्माधर्म्मविचक्षणः ॥ प्रतिग्रहाद्याजनाद्बा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तन्तु त्यागेन तपसैव च ॥ शिलोञ्छमप्याददीत विप्रो जीवन् यतस्ततः । प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः । याच्यः स्यात् स्नातकैर्व्विप्रैरदित्संस्त्यागमर्हति ॥ अकृतञ्च कृतात् क्षेत्राद्गौरजीविकमेव च । हिरण्यं धान्यमन्नञ्च पूर्ब्बं पूर्ब्बमदोषवत् ॥ सप्तवित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥ विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः । धृतिर्भैक्षं कुसीदञ्च दश जीवनहेतवः ॥ ब्राह्मणः क्षत्त्रियो वापि वृद्धिं नैव प्रयोजयेत् । कामन्तु खलु धर्म्मार्थं दद्यात् पापीयसेऽल्पि- काम् ॥ चतुर्थमाददानोऽपि क्षत्त्रियो भागमापदि । प्रजा रक्षन् परं शक्त्या किल्विषात् प्रतिमुच्यते ॥ स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः । शस्त्रेण वैश्यान्रक्षित्वा धर्म्म्यमाहारयेद्बलिम् ॥ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणा- वरम् । कर्म्मोपकरणाः शूद्राः कारबः शिल्पिनस्तथा ॥ शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्त्रमाराधयेद्यदि । धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविशेत् ॥ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ विप्रसेवैव शूद्रस्य विशिष्टं कर्म्म कीर्त्त्यते । यदतोऽन्यद्बिकुरुते तद्भवत्यस्य निष्फलम् ॥ प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः । शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भृत्यानाञ्च परिग्रहम् ॥ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति । नास्याधिकारो धर्म्मेऽस्ति न धर्म्मात् प्रतिसेध- नम् ॥ धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः । मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ यथा तथाहि सद्वृत्तमातिष्ठत्यनसूयकः । तथा तथेमञ्चामुञ्च लोकं प्राप्नोत्यनिन्दितः ॥ शक्तेनापि हि शूद्रेण न काय्यों धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव वाधते ॥ एते चतुर्णां वर्णानामापद्धर्म्माः प्रकीर्त्तिताः । यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ एष धर्म्मविधिः कृत्स्नश्चातुर्व्वर्णस्य कीर्त्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥” इति मानवे धर्म्मशास्त्रे भृगुप्रोक्तायां संहि- तायां दशमोऽध्यायः ॥ * ॥
अन्यत् वर्णशब्दे द्रष्टव्यम् ॥