शब्दकल्पद्रुमः
वर्णनं || क्ली (वर्ण स्तुतौ विस्तारे रञ्जनादौ + ल्युट् ।)
स्तवनम् । (यथा, भागवते । १० । ७४ । ३० । “इत्थं निशम्य दमघोषसुतः स्वपीठा- दुत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन् भगवते परुषाण्यभीतः ॥”)
विस्तरणम् । शुक्लादिवर्णयोजनम् । दीपनम् । इति वर्णधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥