संस्कृत-शब्दकोशः

वर्णना वर्णपात्र

वर्णनीथं

शब्दकल्पद्रुमः

वर्णनीथं || त्रि (वर्ण + कर्म्मणि अनीयर् ।)
वर्ण्यम् । वर्णितव्यम् । (यथा, साहित्यदर्पणे ६ परिच्छेदे । “वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥”)
वर्ण्याः पदार्था यथा, —
“अथ वर्ण्यानि कथ्यन्ते तानि यानि कवी- श्वरैः । महाकाव्यप्रभृतिषु प्रबन्धेषु बवन्धिरे ॥ राजा राजबधूपुरोहितकुमारामात्यसेवाधिपाः देशग्रामपुरीसरोऽब्धिसरिदुद्यानाद्र्यरण्या- श्रमाः । मन्त्रो दूतरणप्रयाणमृगयाश्वेभर्त्विनेन्दूदया वीहारो विरहः स्वयंवरसुरा पुष्पाम्बुखेला रतम् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसु- मम् ॥ (स्तवार्हः । वर्णधात्वर्थदर्शनात् । यथा, भागवते । ३ । २२ । ३७ । “एतत्ते आदिराजस्य मनोश्चरितमद्भुतम् । वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥”)



Correction: