संस्कृत-शब्दकोशः

वर्णविलोडक वर्णसि

वर्णसङ्कर

वाचस्पत्यम्

वर्णसङ्कर ||‍ पु० सम् + कृ—अप् वर्णतः सङ्करः । विप्रादिभ्यो वर्णेभ्योऽनुलोमजाते प्रतिलोमजाते मूर्द्धावसिक्तादौ मागधादौ च जातिभेदे “जायते वर्णसङ्करः” गीता । जातिशब्दे ३०९३ तद्भेदादिकं दृश्यम् ।


शब्दकल्पद्रुमः

वर्णसङ्करः || पुं, (वर्णतो ब्राह्मणादिभ्यः वर्णानां वा सङ्करो मिश्रणं यत्र ।)
मिश्रितजातिः । तद्बिवरणं यथा, —
“बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः । ब्रह्मणो बाहुदेशाच्च जाताः क्षत्त्रियजातयः ॥ ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः । तासां सङ्करजातेन बभूवुर्व्वर्णसङ्कराः ॥ गोपनापितलीलाश्च तथा मोदकमूलवौ । ताम्बूलिपर्णकारौ च तथा बणिकजातयः ॥” लीलास्थाने भाला इति मूलवस्थाने कूवर इति च पाठः । “इत्येवमाद्या विप्रेन्द्र ! सच्छूद्राः परिकीर्त्तिताः । शूद्राविशोस्तु करणोऽम्बष्टो वैश्याद्विजन्मनोः ॥ विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥” अजात्या इत्यत्र अयाज्या इत्यपि पाठः । “स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्बिजो- त्तम । बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥ सूत्रधारो द्विजातीनां शापेन पतितो भुवि । शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना ॥ व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा । पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः ॥ कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः । स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥ कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः । बभूवाट्टालिकाकारः पतितो जारदोषतः ॥ अट्टालिकाकारवीर्य्यात् कुम्भकारस्य योषिति । बभूव कोटिकः सद्यः पतितो गृहकारकः ॥ कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति । बभूव तैलकारश्च कुटिलः पतितो भुवि । सद्यः क्षत्त्रियवीर्य्येण राजपुत्त्रस्य योषिति । बभूव तीवरश्चैव पतितो जारदोषतः ॥ तीवरस्य तु वीर्य्येण तैलकारस्य योषिति । बभूव पतितो दस्युर्लेटश्च परिकीर्त्तितः ॥ लेटस्तीवरकन्यायां जनयामास षण्णरान् । माल्लं मल्लं मातरञ्च भडं कोलञ्च कन्दरम् ॥” कन्दरस्थाने कलन्दर इति वा पाठः । “ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः । सद्यो बभूव चाण्डालः सर्व्वस्मादधमोऽशुचिः ॥ तीवरेणैव चाण्डाल्यां चर्म्मकारो बभूव ह । चर्म्मकार्य्याञ्च चाण्डालात् मांसच्छेदी बभूव ह ॥ मांसच्छेद्यां तीवरेण कॐचश्च परिकीर्त्तितः । कॐचस्त्रियान्तु कैवर्त्तात् काण्डारः परिकीर्त्तितः ॥ सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक ! बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा ॥” हड्डिकशौण्डिकावित्यत्र दुष्टौ हड्डिडमौ इत्यपि पाठः । “क्रमेण हड्डिकन्यायां सद्यश्चाण्डालवीर्य्यतः । बभूवुः पञ्चपुत्त्राश्च भ्रष्टा वनचराश्च ते ॥ लेटात्तीवरकन्यायां गङ्गातीरे च शौनक । बभूव सद्यो यो बालो गङ्गापुत्त्रः प्रकीर्त्तितः ॥ गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः । बभूव वेशधारी च पुत्त्रो युङ्गी प्रकीर्त्तितः ॥ वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह । शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः ॥ क्षत्त्रात् करणकन्यायां राजपुत्त्रो बभूव ह । राजपुत्त्र्यान्तु करणादागवीति प्रकीर्त्तितः ॥ क्षत्त्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्त्तितः । कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः ॥” प्रकीर्त्तित इत्यत्र पतितो भुवि इति वा पाठः । “तीवर्य्यां धीवरात् पुत्त्रो बभूव रजकः स्मृतः । रजक्यां तीवराच्चापि कोदाली च बभूव ह ॥ नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति । क्षत्त्राद्बभूव व्याधश्च वलवान् मृगहिंसकः ॥ तीवरात् शुण्डिकन्यायां बभूवुः सप्त पुत्त्रकाः । ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ॥ ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे । कुत्सितश्चोदरे जातः कूदरस्तेन कीर्त्तितः ॥ तदशौचं विप्रतुल्यं पतित ऋतुदोषतः । सद्यः कोटिकसंसर्गादधमो जगतीतले ॥ क्षत्त्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे । जातः पुत्त्रो महादस्युर्ब्बलवांश्च धनुर्द्धरः ॥ चकार वागतीतञ्च क्षत्त्रियो वारितस्तया । तेन जात्या स पुत्त्रश्च वागतीतः प्रकीर्त्तितः ॥ क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः । बलवत्यो दुरन्ताश्च बभूवुर्म्लेच्छजातयः ॥ अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्ज्जयाः । शौचाचारविहीनाश्च दुर्द्धर्षा धर्म्मवर्ज्जिताः ॥ म्लेच्छात् कुविन्दकन्यायां जोलाजातिर्ब्बभूव ह । जोलात् कुविन्दकन्यायां शराकः परिकीर्त्तितः ॥ वर्णसङ्करदोषेण बह्व्यश्च शठजातयः । तासां नामानि संख्याञ्च को वा वक्तुं द्विज क्षमः ॥ वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवीर्य्येण शूद्रायां बभूवुर्व्वहवो जनाः ॥ ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः । तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥
अपि च । “अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेणे राज्यं प्रशासति ॥ म महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा । वर्णानां सङ्करं चक्रे कामोपहतचेतसः ॥ ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ * ॥
ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ सर्व्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते ॥ स्त्रीष्वनन्तरजातासु द्बिजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्यादमु विधिम् ॥ ब्राह्मणात् वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ क्षत्त्रियाच्छृद्रकन्यायां क्रूराचारविहारवान् । क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ विप्रस्य त्रियु वर्णेषु नृपतेर्व्वर्णयोर्द्बयोः । वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ * क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ शूद्रादाथोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्बत् प्रातिलोम्येऽपि जन्मनि ॥ * ॥
पुत्त्रा येऽनन्तरञ्जीजाः क्रमेणोक्ता द्बिजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ॥ ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः ॥ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ वैश्यान्मागधवैदेहौ क्षत्त्रियात् सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः ॥ क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते । वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्या इति विनि- र्द्दिशेत् ॥ व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्ठकः । आवन्त्यवाटधानौ च पुष्पधः शेख एव च ॥ झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खशो द्रविड एव च ॥ वैश्यात्तु जायते व्रात्यात् सुधन्नाचार्य्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्म्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः ॥ * ॥
सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥ सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः क्षत्तृजातिश्च तथायोगव एव च ॥ एते षट् सदृशान् वर्णान् जनयन्ति स्वजोनिष । मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥ यथा त्रयाणां वर्णानां द्बयोरात्मस्य जायते । आनन्तर्य्यात्स्वयोन्यान्तु तथा बाह्येष्वपि क्रमात् ॥ ते चापि वाह्यान् सुबहूं स्ततोऽप्यधिकदूषि- तान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ * ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ॥ तथा बाह्यतरं बाह्यश्चातुवर्णे प्रसूयते । प्रतिकूलं वर्त्तमाना बाह्याबाह्यतरान् पुनः । हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ प्रसाधनोपचारज्ञमदासं दासजीवनम् । सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥ मैत्रेयकन्तु वैदेहो माधूकं संप्रसूयते । नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ निषादो मार्गवं सूते दासं नौकर्म्मजीविनम् । कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः ॥ मृतवस्त्रभृत्सु नारीषु गर्हितान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः ॥ कारावरो निषादात्तु चर्म्मकारः प्रसूयते । वैदेहकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्याम् जायते पापः सदा सज्जनगर्हितः ॥ निषादस्त्री तु चण्डालात् पुत्त्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्म्मभिः ॥ स्वजातिजानन्तरजाः षट्सु ता द्बिजधर्म्मिणः । शूद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृताः ॥ तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मतः ॥ शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ पोण्ड्रकाश्चोड्रद्रविडाः काम्बोजा जवनाः शकाः । पारदाः पह्रवाश्चीनाः किराताः दरदाः खशाः ॥ मुखबाहूरुपज्जानां या लोके जातयो वहिः । म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥ ये द्विजानामपसदा ये चाप्यध्वंसजाः स्मृताः । ते निन्दितैर्वर्त्तयेयुर्द्विजानामेव कर्म्मभिः ॥ * ॥
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् । वैदेहकानां स्त्रीकार्य्यं मागधानां बणिक्पथः ॥ मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥ क्षत्त्रुग्रपुक्कसानान्तु विलौकोबधबन्धनम् । धिग्वणानां चर्म्मकार्य्यं वेणानां भाण्डवादनम् ॥ चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाना वर्त्तयन्तः स्वकर्म्मभिः ॥ * ॥
चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्दभम् ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भीजनम् । कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्लीयुः शय्याश्चाभरणानि च ॥ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्विभावयेत् ॥ अनार्य्यतानिष्ठुरताक्रूरतानिष्क्रियात्मताः । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ पित्र्यं वा भजते शीलं मातुर्व्वोभयमेव वा । न कथञ्चनदुर्य्योनिः प्रकृतिं स्वां नियच्छति ॥ कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः । संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ यत्र त्वेतेऽपिविध्वंसा जायन्ते वर्णदूवकाः । राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्म्मं चातुर्व्वर्ण्येऽब्रीन्मनुः ॥ * ॥
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत् प्रजायते । अश्रेयान् श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात् ॥ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्त्रियाज्जातमेवन्तु विद्याद्वैश्यात्तथैव च ॥ अनार्य्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् ॥ जातो नार्य्यामनार्य्यायामार्य्यादार्य्यो भवेद्- गुणैः । जातोऽप्यनार्य्यादार्य्यायामनार्य्य इति निश्चयः ॥ तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः । वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥ सुबीजञ्चैव सुक्षेत्रे जातं सम्पद्यते यथा । तथार्य्याज्जात आर्य्यायां सर्व्वं संस्कारमर्हति ॥ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयन्तु व्यवस्थितिः ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ यस्माद्बीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥ अनार्य्यमार्य्यकर्म्माणमार्य्यञ्चानार्य्यकर्म्मिणम् । सम्पधार्य्याब्रवीद्धाता न समौ नासमाविति ॥” इति मानवे ९ । १० अध्यायौ ॥ * ॥
वर्णसङ्करस्य कारणं दोषाश्च यथा, —
“अघर्म्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः ॥ उच्छन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन ! । नरके नियतं वासो भवतीत्यनुशुश्रुमः ॥” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥



Correction: