संस्कृत-शब्दकोशः

वर्णात्मन् वर्णार्ह

वर्णाधिप

शब्दकल्पद्रुमः

वर्णाधिपः || पुं, (वर्णानां ब्राह्मणादीनामधिपः ।)
ब्राह्मणक्षत्त्रियवैश्यशूद्राणामधिपतिग्रहः । यथा, “ब्राह्मणे शुक्रवागीशौ क्षत्त्रिये भौमभास्करौ । चन्द्रो वैश्ये बुधः शूद्रे पतिर्म्मन्दोऽन्त्यजे जने ॥” इति ॥ “स्वाध्याये वेद वर्णाधिप इह शुभदे क्षौरभे नादितौ च ।” इति च ज्योतिस्तत्त्वम् ॥



Correction: