संस्कृत-शब्दकोशः

वर्णिक वर्णित

वर्णिका

वाचस्पत्यम्

वर्णिका ||‍ स्त्री वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन् । १ लेखन्याम् २ कठिन्यां हारा० ३ मस्यां त्रिका० ।


शब्दकल्पद्रुमः

वर्णिका || स्त्री (वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्या इति । वर्ण + ठन् + टाप् ।)
कठिनी । यथा, —
“लेखन्यां कर्णिकापि स्यात् कठिन्यामपि वर्णिका ॥” इति हारावली । २६९ ॥ मसिः । इति त्रिकाण्डशेषः ॥ काञ्चनस्य उत्- कर्षः । यथा, —
“वर्णकाश्चारणेऽस्त्री तु चन्दने च विलेपने । द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च ॥” इति मेदिनी । वे, १५२ ॥



Correction: