संस्कृत-शब्दकोशः

वर्णिका वर्णिनी

वर्णित

वाचस्पत्यम्

वर्णित ||‍ त्रि० वर्ण—क्त । १ स्तुते अमरः २ कृतवर्णने ३ रूपा- न्तरमापादिते च ।


शब्दकल्पद्रुमः

वर्णितः || त्रि (वर्ण + क्त ।)
स्तुतियुक्तः । तत्- पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४ पनायितः ५ प्रणुतः ६ पणितः ६ पनितः ८ गीर्णः ९ अभिष्टुतः १० ईडितः ११ स्तुतः १२ । इत्यमरः । ३ । २ । ११० ॥ नुतः १३ । इति जटाधरः ॥ (विस्तारितः । यथा, महाभारते । १ । २ । २०९ । “चतुर्थमेतद्बिपुलं वैराटं पर्व्व वर्णितम् ॥” कथितः । यथा, कथासरित्सागरे । १९ । ३६ । “स्वभर्त्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ॥”)



Correction: