वाचस्पत्यम्
वर्त्तमान || पु० वृत—शानच् । कालभेदे शब्दप्रयोगाधारे आ- रब्धापरिसमाप्ते १ काले २ तत्कालवृत्तौ त्रि० । ||वर्त्तमानकालश्च चतुर्विधः । यथा “प्रवृत्तोतरत १- श्चैव वृत्ताविरत २ एव च । नित्यः प्रवृत्तः ३ सामीप्यो ४ वर्त्तमानश्चतुर्विधः । क्रमेणोदाहरणाति । मांसं न खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयतीत्यर्थः । इह कुमाराः क्रीडन्ति २ तदानीन्तमक्रीडनाभावेऽपि पूर्वक्रीडानां बुद्धौ वर्त्तमानत्वात् । पूर्वतास्तिष्ठन्ति ३ नित्य प्रदृत्तत्वात् । किञ्च पर्वतानां स्थितत्वेन वर्त्तमानत्वेऽपि भूतभवविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि स्वात् । सामीप्यो ४ द्विविधः । भूत सामीप्यो भविष्यत्सामीप्यश्च यथा कदा आगतोऽसि इतिप्रश्ने अध्वस्वेदादेर्वर्त्तमानत्वात् एषोऽहमागच्छामि इति आगतोऽपि वदति । भविस्यत्सामीप्यो यथा । कदा गमिष्यास इति प्रश्ने एषोऽहं गच्छामि इति गमने क्रियमाणोद्यमोऽपि वदति” दुर्गादासः ।
शब्दकल्पद्रुमः
वर्त्तमानः || पुं, (वर्त्तते इति । वृत् + शानच् । मुक् ।)
प्रयोगाधिकरणीभूतकालः । इति नैयायिकाः ॥ तत्कालवृत्ते, त्रि । तयोः पर्य्यायौ । अद्यतनः २ अधुनातनः ३ । इति राजनिर्घण्टः ॥ वैया- करणमते तु । आरब्घापरिसमाप्तिर्व्वर्त्तमानः कालः । यथा । महाभारतं पठति । स तु चतुर्विधः । यथा, —
“प्रवृत्तोपरतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्यो वर्त्तमानश्चतुर्विधः ॥” क्रमेणोदाहरणानि । मांसं न खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयति इत्यर्थः । इह कुमाराः क्रीडन्ति तदानीन्तनक्रीडनाभावेऽपि पूर्ब्बक्रीडानां बुद्धौ वर्त्तमानत्वात् । पर्व्वता- स्तिष्ठन्ति नित्यप्रवृत्तत्वात् । किञ्च पर्व्वतानां स्थितत्वे वर्त्तमानत्वेऽपि मूतभविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्व्वतास्तस्थुः स्थास्यन्ति इत्यपि स्यात् । सामीप्यो द्विविधः । भूतसामीप्यो भविष्यत्- सामीप्यश्च । भूतसामीप्ये यथा । कदा आगतो- ऽसि इति प्रश्ने अध्वस्वेदादेर्व्वर्त्तमानत्वात् एषो- ऽहमागच्छामि इति आगतोऽपि वदति । भवि- ष्यत् सामीप्ये यथा । कदा गमिष्यसि इति प्रश्ने एषोऽहं गच्छामि इति गमनक्रियमाणोद्यमो- ऽपि वदति । इति मुग्धबोधटीकायां दुर्गादासः ॥