वाचस्पत्यम्
वर्त्तलोह || न० वर्त्त्यते वृत—णिच्—कर्मणि अच् कर्म० । आवर्त्तनयोग्यो लौहभेदे ।
शब्दकल्पद्रुमः
वर्त्तलोहं || क्ली (वर्त्तते इति । वृत् + अच् । ततः कर्म्मधारयः ।)
लौहविशेषः । विद्रि इति भाषा । इति केचित् ॥ तत्पर्य्यायः । वर्त्त- तीक्ष्णम् २ वर्त्तकम् ३ लोहसङ्करम् ४ नील- कम् ५ नीललोहम् ६ नीलजम् ७ वर्त्तलोह- कम् ८ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शिशिरत्वम् । कफदाहपित्तनाशित्वम् । मधु रत्वम् । पित्तदाहशमनत्वञ्च । इति राज- निर्घण्टः ॥