संस्कृत-शब्दकोशः

वर्तलोह वर्तिक

वर्ति

वाचस्पत्यम्

वर्त्ति(र्त्ती) ||‍ स्त्री वृत—इन् वा ङीप् । १ लेखे २ नयनाञ्जने ३ गात्रानुलेपने ४ दीपदशायां ५ भिषजां निर्मेयौषधभेदे (वाति) “कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा । केणो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति कार्च तिमिरं पटलं तथा” गरुडपु० १९८ अ० । ६ दीपे च मेदि० ।


शब्दकल्पद्रुमः

वर्त्तिः || स्त्री (वर्त्ततेऽनया इति । वृत् + “हृपिषि- रुहिवृतिविदिच्छिदिकीर्त्तिभ्यश्च ।” उणा० ४ । ११८ । इति इन् ।)
भेषजनिर्म्माणम् । नयना- ञ्जनम् । लेखः । गात्रानुलेपनी । दीपदशा । (यथा, भागवते । ५ । ११ । ८ । “यथा प्रदीपो घृतवर्त्तिमश्नन् शिखाः सधूमा भजति ह्यन्यदा स्वम् ॥”)
दीपः । इति मेदिनी । ते, ५५ ॥ * ॥
वर्त्ति- विशेषो यथा, —
“कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा । फेनो रसाञ्जनं क्षौद्रं षिडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा ॥” इति गारुडे १९८ अध्यायः ॥ (वर्त्ततेऽनयेति । वृत् + “वृतेश्छन्दसि ।” उणा० ४ । १४० । इति इः । बाहुलकात् लोकेऽपि । योगकर्म्मद्रव्यम् । इत्युज्ज्वलदत्तः ॥)



Correction: