वाचस्पत्यम्
वर्त्तिष्यमाण || पु० वृत—शानच् ऌटः सद्वेति स्यट् । भवि- ष्यत्काले । २ तद्वृत्तौ त्रि० ।
शब्दकल्पद्रुमः
वर्त्तिष्यमाणः || त्रि (वृत् + भविष्यति स्यमान- प्रत्ययः ।)
भविष्यत्कालादिः । वर्त्तमानप्राग- भावाश्रयः । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे । ६ । ३०८ । “वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः ॥ संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥”)