वाचस्पत्यम्
वर्द्धक || पु० वृध—ण्वुल् । १ ब्राह्मणयष्टौ (वामनहाटी) अमरः वृध—वा वर्द्ध—ण्वुल् । २ पूरके ३ छेदके ४ वृद्धिकारके च त्रि० ।