संस्कृत-शब्दकोशः

वर्द्धकि वर्द्धन

वर्द्धकिन्

वाचस्पत्यम्

वर्द्धकिन् ||‍ पु० वर्द्धकः वर्द्धोऽस्त्यस्य इनि । त्वष्टरि (छुतार) जातिभेदे शब्दर० ।


शब्दकल्पद्रुमः

वर्द्धकी || [न्] पुं, (वर्द्धको वर्द्धोऽस्ति अस्येति । वर्द्धक + इनि ।)
वर्णसङ्करजातिविशेषः । वढै इति हिन्दी भाषा । तत्पर्य्यायः । त्वष्टा २ वर्द्धकिः ३ तक्षा ४ सूत्रधारः ५ रथकारः ६ रथकरः ७ काष्ठतट् ८ काष्ठतक्षकः ९ । इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ४३ । २२ । “अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षभङ्गे तथाणिभङ्गे च वर्द्धकिनः ॥”)



Correction: