वाचस्पत्यम्
वर्द्धमान || पु० वृध—शानच् । १ एरण्डवृक्षे अमरः । २ वृद्धि- शीले त्रि० । २ शराये मृत्पात्रभेदे ४ विष्णौ ५ पशुभेदे च मेदि० । ६ जिनभेदे हेमच० । ७ वानना गृहभेदे हला० । ८ देशभेदे वृ० स० १४ अ० कूर्मविभागशब्दे दृश्यम् । ९ नगरभेदे च । १० वृद्धियुक्ते त्रि० ।