वाचस्पत्यम्
वर्फ || गतौ बधे च भ्वा० पर० सक० सेट् । वर्फति अवर्फीत् ।
शब्दकल्पद्रुमः
वर्फ || गत्याम् । वधे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) वर्फति । इति दुर्गादासः ॥