वाचस्पत्यम्
वर्म्मित || त्रि० वर्म करोति णिच्—क्त । १ कृतसन्नाहे २ उद्युक्ते च
शब्दकल्पद्रुमः
वर्म्मितः || त्रि (वर्म्म करोतीति । वर्म्म + णिच् । ततः कर्म्मणि क्तः । वर्म्म सञ्जातमस्येति । इतच् वा ।)
वर्म्मयुक्तः । कृतसन्नाहः । तत्पर्य्यायः । सन्नद्धः २ सज्जः ३ दंशितः ४ व्यूढकङ्कटः ५ । इत्यमरः । २ । ८ । ६५ ॥ ऊढकङ्कटः ६ । इति सुभूतिः ॥ (यथा, गो० रामायणे । २ । ९१ । १५ । “वाजिनां वर्म्मिताङ्गानां क्रुद्धस्य मम सायकाः । अद्य भित्त्वा प्रवेक्ष्यन्ति शरीराणि मयेरिताः ॥”)