संस्कृत-शब्दकोशः

वर्व्वरा वर्ष

वर्व्वरी

शब्दकल्पद्रुमः

वर्व्वरी || स्त्री (वर्व्वर + टाप् । पक्षे षित्वात् ङीष् ।)
क्षुद्रवृक्षविशेषः । वायुइ इति भाषा । तत्पर्य्यायः । कवरी २ तुङ्गी ३ खरपुष्पा ४ अजगन्धिका ५ अजगन्धा ६ कवरा ७ खरपुष्पिका ८ । इत्यमरशब्दरत्ना- वल्यौ ॥ तस्याः प्रकारा गुणाश्च । “वर्व्वरी कवरी तुङ्गी खरदुग्धाजगन्धिका । पर्णासस्तत्र कृष्णे तु कठिञ्जरकुठेरकौ ॥ कालमारः करालश्च मलूकः कृष्णमल्लिका । तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटपत्रस्ततोऽपरः ॥ वर्व्वरीत्रितयं रूक्षं शीतं कटु विदाहि च । तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च । पित्तलं कफवातास्रदद्रुकृमिविषापहम् ॥” इति भावप्रकाशः ॥



Correction: