शब्दकल्पद्रुमः
वर्षणं || क्ली (वृष् + ल्युट् ।) वृष्टिः । इति शब्द- रत्नावली ॥ (यथा, मार्कण्डेयपुराणे । १०४ । २१ । “तमेव मुञ्चतः सर्व्वं रसं वै वर्षणाय यत् । रूपमाप्यायकं भास्वंस्तस्मै मेघाय ते नमः ॥”)