संस्कृत-शब्दकोशः

वर्षबर वर्षवृद्धि

वर्षवर

शब्दकल्पद्रुमः

वर्षवरः || पुं, (वरतीति । वर आवरणे + अच् । वर्षस्य रेतोवर्षणस्य वर आवरकः ।)
षण्ढः । इत्यमरः । २ । ८ । ९ ॥ खोजा । इति भाषा ॥ (यथा, रत्नावल्याम् २ अङ्के । “नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ॥”)



Correction: